 |
www.speaksanskrit.org Forum for people interested in learning Sanskrit
|
| View previous topic :: View next topic |
| Author |
Message |
hkramapriyan
Joined: 20 Jun 2006 Posts: 225 Location: Clarksville, MD
|
Posted: Sun Nov 19, 2006 5:51 pm Post subject: Celebrating Diversity (vaividhyam) |
|
|
वैविध्यम्
हं. क. रामप्रियन्
२००२-तमे वर्षे सेप्टेम्बर् मासे रचितं जगद्वैविध्यविषयकं पद्यगुच्छं अत्र भवतां विनोदार्थमारोप्यते । एतत् संस्कृते कन्नडभाषायां च इतःपूर्वं http://thatskannada.oneindia.in/nri/kavana/050106ramapriyan.html जालस्थाने प्रकटितम् ।
अनॆकलॊका वर्तन्तॆ भगवंस्तव मायया ।
वैविध्यॆन त्विदं लॊकं महद्विस्मयकारकम् ॥१॥
समुदायॊ महानासीत् कदाचित् कुत्रचिद्भुवि ।
आगतास्सर्वदॆशॆभ्यॊ बहवॊ विविधा जनाः ॥२॥
"एन्त मारायरॆ" प्राहुः मङ्गळूरुडुपी जनाः ।
"ऎन्री ऎन्रीति" च प्रीत्या पूर्वकन्नडिगास्तथा ॥३॥
"एप्डिक्कृन्दा" "ओप्डिकृन्दा" "नी एप्डिक्रा" तथैव च ।
हेब्बार् श्रीवैष्णवा ऊचुः द्राविडीं कन्नडीकृताः ॥४॥
"वणक्कम् सार्" इति प्राहुः तमिळ्नाडुनिवासिनः ।
"बागुन्नारा"ऽवदन्नांध्राः "ऎमंडी"ति च तॆऽब्रुवन् ॥५॥
"काय् समाचार्" मराठीयाः "कसल् रॆ" कोङ्कणीजनाः।
भारतस्यौत्तरॆयास्तु "क्या हाल् है" इति चाब्रुवन् ॥६॥
"की गल्ल हॆ" इति प्राहुः पञ्जाब्जाता जनास्ततः ।
"सू छॆ"ऽवदंश्च "सारू छॆ" गुर्जरादागता जनाः ॥७॥
मत्स्यान् भुक्त्वाऽवदंस्तत्र "की हॊल्लॊ" इति वङ्गजाः ।
"ज़्द्राव्स्त्वुय्तॆ" इति रूसीयाः वॊद्कां पीत्वा बभाषिरॆ ॥८॥
श्मश्रून् निजैः करैः स्पृष्ट्वा प्राहुर्माहम्मदाः "सलाम्"।
शिरस्सु यामकान् धृत्वा येहूद्यास्तु "षलॊम्" "षलॊम्"॥९॥
स्वाहिल्यां केन्यजाः प्राहुः "जांबॊ जांबॊ" परस्परम्॥
एस्पान्याः प्राहुर्"ऒला" च "बॊन् जॊर्नॊ" इटलीजनाः ॥१०॥
बीअर् पानरता डॊय्ट्षाः "गूटॆन् आबॆण्ड्" ततॊऽब्रुवन्।
"से वा" "से वा" इति प्राहुः फ़्रान्सॆसाश्चुम्बनैर्युताः ॥११॥
आङ्ग्लॆयद्वीपजाः सर्वॆ तॆऽवदंस्तु "हेलॊ" "हेलॊ" ।
"डूइन् ग्रॆट्, ऎय्?" च पप्रच्छुः क्यानडावासिनॊ जनाः ॥१२॥
आमॆरिकीयाः "हाय्! दॆर्" "हॆ!" नानासंस्थानजा अपि ।
"हौर्यूज़्डूइन्" इति प्राहुः ब्रुक्लिन्जाः क्षिप्रभाषिणः ॥१३॥
"हाय्! याल्!" इत्यालबामीया बहुस्नॆहास्ततॊऽवदन् ।
टेक्सान ऒक्लहॊमीयाः "हौडि! हौडी"ति चाब्रुवन् ॥१४॥
आमॆरिकीया "यॊ वाज़प्" आफ़्रिकाजातजातजाः ।
"अलॊहा" इत्यब्रुवंश्च हवाईद्वीपवासिनः ॥१५॥
जनास्तु कोरियाजाताः "अन्यॊसॆयॊ"ऽब्रुवंस्ततः।
"ऒहायॊ" इति नीहॊन्जाः "नी हाव्"इति च चीनजाः ॥१६॥
फ़िलिपीनॊजना ऊचुः "कुमुस्तक" "कुमुस्तक"॥
अवदंस्थायिदॆशस्थाः "सवंदि क्राप्" "सवंदि खा" ॥१७॥
जनानॆतांस्तदा दृष्ट्वा काकाः काकारवैर्युताः।
दिक्षु सर्वॆषु चॊड्डीनाः खॆचरान् प्राणिनस्ततः॥१८॥
क्षिप्रमागन्तुमाह्वानं "का का" इत्यॆव तॆऽब्रुवन्।
प्राणिनः पक्षयश्चापि विस्मयं द्रष्टुमागताः ॥१९॥
"ऒयिंक् ऒयिंक्" वराहस्तु कुक्कुटः "कॊक्रकॊ"ऽब्रवीत्।
बकः प्राह च "क्वाक् क्वाक् क्वाक्" मार्जालस्तु "मियाव् मियाव्"॥२०॥
सिंहॊऽगर्जच्च शार्दूलः हूहूकारं वृकॊऽकरॊत्।
शुनकश्चाब्रवीद्"बौबौ" मर्कटॊ "हीहिहूहुहू"॥२१॥
मयूरस्त्ववदत् षड्जॆ गौर्जगादर्षभॆ ततः ।
अजॊ "ब्या" प्राह गान्धारॆ मध्यमॆ क्रौञ्च अब्रवीत् ॥२२॥*
पिकस्तु पञ्चमॆऽकूजत् अश्वॊऽहॆषच्च धैवतॆ ।
गजॊऽबृंहन्निषादॆ हि तथाऽभूत्तुमुलं महत् ॥२३॥*
श्रुत्वा सर्वानिमान् दॆव विस्मितॊऽहं बभूव ह ।
वैविध्यमस्य लॊकस्य त्वत्क्रीडायाः फलं प्रभॊ! ॥२४॥
* यथा अमरकॊषे उक्तम् |
|
| Back to top |
|
 |
|
|
You cannot post new topics in this forum You cannot reply to topics in this forum You cannot edit your posts in this forum You cannot delete your posts in this forum You cannot vote in polls in this forum
|
Powered by phpBB © 2001, 2005 phpBB Group
|