 |
www.speaksanskrit.org Forum for people interested in learning Sanskrit
|
| View previous topic :: View next topic |
| Author |
Message |
hkramapriyan
Joined: 20 Jun 2006 Posts: 225 Location: Clarksville, MD
|
Posted: Sun Oct 22, 2006 9:00 pm Post subject: chAturmAsyakathA |
|
|
चातुर्मास्यकथा
हम्. क. रामप्रियन्
अक्टोबर् १७, २००६
पुरासीत् ग्रेगोरीनाम क्रैस्तानां गुरुसत्तमः ।
पञ्चाङ्गो येन रचितः सर्वत्राद्योपयुज्यते ॥१॥
वर्षान्ते तस्य पञ्चाङ्गे त्वस्ति मासचतुष्टयम् ।
नाम्नां तेषां तु मासानां उद्भवस्य कथां श्रुणु ॥२॥
रचयित्वा स पञ्चाङ्गं सौरमानं पुरातनम् ।
ग्रेगोरी गुरुवर्योऽसौ चिन्तामग्नोऽभवत्ततः ॥३॥
"वर्षस्य द्वादशा मासाः ते सन्त्यद्याप्यनामिकाः ।
समीचीनानि नामानि तेषां दद्यामहं कथम्" ॥४॥
चिन्तामग्नं गुरुं दृष्ट्वा शिष्यश्रेष्ठोऽवदद्वचः ।
"एतस्य सुलभो मार्गः इदानीं दृश्यते मया ॥५॥
भवतो यद्यनुज्ञाऽस्ति तं मार्गं दर्शयाम्यहम्" ।
ततस्स गुरुणाऽऽज्ञप्तः शिष्यस्तमिदमब्रवीत् ॥६॥
"जगतस्सर्वदेशेभ्यः ज्योतिश्शास्त्रविशारदान् ।
वाग्विदश्च समाहूय समुदायो विधीयताम् ॥७॥
ये प्रदास्यन्ति मासेभ्यः सूक्तान्यप्युत्तमानि च ।
नामानि तेषां दीयन्तां विशेषाः पारितोषकाः" ॥८॥
एतच्छ्रुत्वा गुरुः प्रीतः तथैवास्त्वित्युवाच सः ।
सन्देशानथ पप्रेषुः तच्छिष्याः सर्वदिक्षु च ॥९॥
"मासनामान्वेषणार्थं समुदायो भवेदिह ।
सुनामजनकेभ्यस्तु पारितोषः प्रदीयते ॥१०॥
आयान्तु रोमनगरं ज्योतिर्वाक्शास्त्रकोविदाः ।
यत्र पञ्चाङ्गसम्बन्धी समुदायो भविष्यति" ॥११॥
एतत्सङ्घोषणं श्रुत्वा विदुषस्सर्वदेशजाः ।
प्रययू रोमनगरं पारितोषककाङ्क्षिणः ॥१२॥
तथैव भारते जाताः दाक्षिणात्या बहुश्रुताः ।
रामपुर्या रोमपुरीं जग्मुस्तीर्त्वा महोदधिम् ॥१३॥
तेषां मध्ये महानासीत् रङ्गाचार्य इति श्रुतः ।
विदुषां भारतीयानां नेतृत्वे च प्रतिष्ठितः ॥१४॥
उद्घाटनसमारम्भं अभूत्तत्र विजृम्भितम् ।
सम्मेलनं समुद्दिश्य ग्रेगोरीगुरुरब्रवीत् ॥१५॥
"भवन्तः पण्डितास्सर्वे नानादिग्भ्यस्समागताः ।
स्वीकुर्वन्तु ममातिथ्यं वसन्त्वत्र सुखेन हि ॥१६॥
अस्य मासस्य नामास्ति चक्रवर्तेरगस्टसः ।
अन्यमासाभिधानानि रचयन्त्विह पण्डिताः ॥१७॥
एकं संवत्सरं त्वस्मिन् वसन्तः पुटभेदने ।
मासे मासे सम्मिलित्वाऽन्वर्थनाम प्रदीयताम्" ॥१८॥
ताः श्रुत्वा ग्रेगोरेर्वाचः विदुषस्तु ननन्दिरे ।
तेभ्यस्तेभ्यस्तेन दत्तान् निवासान् प्रययुस्ततः ॥१९॥
भारतीयाश्च विद्वांसो मासमागस्त्यनामकं ।
ततस्संस्मृत्य संस्मृत्य समहृष्यन् मुहुर्मुहुः ॥२०॥
ततो द्वितीयमासान्ते पुनस्सम्मिलिता जनः ।
अन्वर्थनाम त्वेतस्य किं भवेदिति चिन्तिताः ॥२१॥
रङ्गाचार्यस्ततोत्थाय पण्डितांस्तानुवाच ह ।
"दुस्सहं शैत्यमद्यास्ति मया षड्वस्त्रधारिणा ॥२२॥
सोढुं शक्नोमि तच्छैत्यं यद्यहं सप्तवस्त्रधृत् ।
तस्मात् सप्तांबरं नाम मासायास्मै प्रदीयताम्" ॥२३॥
श्रुत्वेदं पण्डितास्सर्वे साधुसाध्विति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै पारितोषकमुत्तमं ॥२४॥
तत आगतमासे तु वायौ पवति शीतले ।
सर्ववृक्षेषु पर्णानि हरिद्वर्णं तु तत्यजुः ॥२५॥
पीतवर्णानि रक्तानि रक्तपीतानि वै बभुः ।
तन्मासस्यान्तकाले च पुनर्मिलितपण्डिताः ॥२६॥
केन नाम्ना तु मासोऽयं अन्वर्थेनाभिधीयते ।
इति चिन्तानिमग्नास्ते वदन्ति स्म परस्परं ॥२७॥
रङ्गाचार्यो महाविद्वान् पुनरागतवान् भृशम् ।
मासोऽयं शीतलतरः गतसप्ताम्बरादपि ॥२८॥
सप्तवस्त्रधरस्सोढुं न शक्नोमि महाजनाः ।
सोढुं शक्नोमि तच्छैत्यं यद्यहं त्वष्टवस्त्रधृत् ॥२९॥
तस्मादष्टाम्बरं नाम मासायास्मै प्रदीयताम् ।
इति बुद्धिमतो वाक्यं श्रुत्वा पण्डितपुङ्गवाः ॥३०॥
करताडनमार्गेणाश्लाघयंस्तं पुनः पुनः ।
ग्रेगोरी चापि सुप्रीतः प्रददौ पारितोषकं ॥३१॥
तत आगत मासे तु प्रबलेन च वायुना ।
शुष्कानि पेतुः पर्णानि वृक्षांस्त्यक्त्वा ततो भुवि ॥३२॥
अन्ते तस्य च मासस्य मिलिता घनपण्डिताः ।
किं नामास्य तु दातव्यं इत्याहुस्ते परस्परम् ॥३३॥
पुनरायान्महाविद्वान् रङ्गाचार्यो जगाद च ।
एतेन वायुना शैत्यं प्रबलेनाधिकीकृतम् ॥३४॥
अष्टवस्त्रधृतेनापि न शक्यं सोढुमीदृशम् ।
तस्मान्नवमवस्त्रेणावृतो भूत्वा सहाम्यहम् ॥३५॥
नवाम्बरं हि नामास्य मासस्येत्येव मे मतम् ।
सर्वे निशम्य तद्वाक्यं चक्रुश्च करताडनम् ॥३६॥
समीचीनं तदन्वर्थं साधूक्तमिति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै तृतीयं पारितोषकम् ॥३७॥
तत आगतमासे तु संयुते दीर्घरात्रिभिः ।
वृक्षास्सर्वे रिक्तपर्णाः तस्थुस्ते विगतौजसः ॥३८॥
हिमावृता बभौ भूमिः श्वेताम्बरधरोपमा ।
सदा हरिद्भिः पर्णैश्च तोरणैश्चाप्यलङ्कृताः ॥३९॥
बभुर्दीपावलीभिश्च रोमपुर्यास्सुवीथयः ।
क्रिस्तजन्मसमारम्भोत्सुक्तगाननिनादिताः ॥४०॥
सम्मेलनं पण्डितानां वैशिष्ट्येन ततोऽभवत् ।
ल्याटिन् मन्त्रैस्सुघॊषस्तत् ग्रेगोरी ह्युदघाटयत् ॥४१॥
सभामुद्दिश्य पप्रच्छ "सन्ति के ह्यत्र पण्डिताः ।
ये शुभायास्य मासस्य नाम दातुं समुद्यताः?" ॥४२॥
त्रीणि नामानि मासानां श्रुतवन्तो हि पण्डिताः ।
नेत्राणि चालयामासुः रङ्गाचार्यमुखं प्रति ॥४३॥
रङ्गाचार्य एव ततः उत्थाय पुनरब्रवीत् ।
"नेत्रयोर्मधुरं दृश्यं हिमं श्वेताम्बरोपमम् ॥४४॥
पुरा मया नैव दृष्टं एतावन्मम जीवने ।
परन्त्वशक्यं सोढुं तत् शैत्यं वस्त्रैर्नवैरपि ॥४५॥
यदा धरामि दशमं सोढुं शक्तो भवाम्यहम् ।
तस्मात् दशाम्बरं नाम मासस्यास्य प्रदीयताम्" ॥४६॥
रङ्गाचार्यस्त्वेवमुक्त्वा ततस्तूष्णीं बहूव ह ।
पण्डिता उथ्थितास्सर्वे चक्रुस्ते करताडनम् ॥४७॥
विद्वन्मणिं तं ग्रेगोरी त्वभिनन्द्य पुनः पुनः ।
"नाम्नां चतुष्टयं दत्वा महत्कार्यं कृतो भवान् ॥४८॥
एवं हि सर्वमासानां नामान्यपि ददातु भोः" ।
रङ्गाचार्यस्तु तच्छ्रुत्वा ग्रेगोरीं पुनरब्रवीत् ॥४९॥
"अत्र स्थातुं न शक्नोमि पुर्यसौ अतिशीतला ।
भारतं प्रतियास्यामि यद्यनुज्ञा प्रदीयते ॥५०॥
मासस्तु शीतलतरः शीघ्रमेवागमिष्यति ।
जनवीरा हि ये शक्ताः सोढुं शैत्यमितःपरम्" ॥५१॥
सप्ताम्बराष्टाम्बरमासनामनी
रङ्गार्यदत्तेऽद्य जगत्प्रसिद्धे ।
नवाम्बरं चापि दशाम्बरं च
स्थास्यन्ति यावद्गिरयश्च नद्यः ॥५२॥ |
|
| Back to top |
|
 |
nareshpc
Joined: 22 Jun 2006 Posts: 47
|
Posted: Thu Nov 02, 2006 4:59 pm Post subject: |
|
|
एतच्छ्रुत्वा चतुर्भागं परं हर्षमवाप्तवान्।
विमु~ज्चामि शिरस्त्रं तु रामप्रियाय तत्क्षणे॥
(विमु~ज्चामि शिरस्त्रं रामप्रियाय = hats off to Ramapriyan mahodaya!) |
|
| Back to top |
|
 |
hkramapriyan
Joined: 20 Jun 2006 Posts: 225 Location: Clarksville, MD
|
Posted: Fri Nov 03, 2006 7:23 pm Post subject: |
|
|
धन्यवादः नरेश-महोदय! चातुर्मास्य-कथायाः टिप्पणी अत्र लिख्यते.
यथा भारतसञ्जातः शेषप्पय्यर् इति श्रुतः ।
एवान्नदीतटस्थां तु स्ट्राट्फ़र्ड्नाम्नीं पुरीम् गतः ॥
महाकविस्ततो भूत्वा नानानाटककारकः ।
स्वीकृत्वा षेक्स्पियर्नाम विश्वे ख्यातिमवाप ह ॥
यथा जिगण्यां सञ्जातः चक्रपाणिसुनामकः ।
यौवने भारतं त्यक्त्वा गत्वा चामेरिकां ततः ॥
विख्यातां आपणश्रेणिं "जे. सी. पेन्नी" इति श्रुताम् ।
स्थापयित्वा च सर्वत्र धनवान् सम्बभूव ह ॥
तथैव रङ्गाचार्यश्च गत्वा रोमपुरीं पुरा ।
ग्रेगोरेस्समुदाये सः मासनामानि दत्तवान् ॥
सप्ताम्बरः कथं भवति? इत्यादयः प्रश्नाः भवन्ति चेत् ...
कौपीनं अन्तर्युतकं युतकं चोरुकं तथा ।
पादस्यूतौ प्रावरकं धृत्वा सप्ताम्बरो भवेत् ॥
एवं सप्ताम्बरो भूत्वा कण्ठावरणमप्यतः ।
धरन् शैत्यं यस्सहति स त्वष्टाम्बर उच्यते ॥
एवमष्टाम्बरो भूत्वा धरन् प्रावरकं च यः ।
शैत्यं यतति यस्सोढुं स नवामबर उच्यते ॥
एवं नवाम्बरो भूत्वा शिरत्राणं धरन्नरः ।
शैत्यं वारयमाणस्तु दशाम्बर इति स्मृतः ॥ |
|
| Back to top |
|
 |
hkramapriyan
Joined: 20 Jun 2006 Posts: 225 Location: Clarksville, MD
|
Posted: Sat Nov 04, 2006 8:10 am Post subject: |
|
|
kShyamyatAm | hyastane antimashlokadvaye doShAssanti | tad evaM likhitvyam |
evamaShTAmbaro bhUtvA shiratrANaM dharannaraH |
shaityaM yatati yassoDhuM sa navAmbara uchyate ||
evaM navAmbaro bhUtvA shaityaM sODhuM na shaknuvan |
praprAvarakadhArI tu dashAmbara iti smRutaH ||
Glossary:
antaryutakam = T-shirt (inner shirt)
pAdasyUtau = socks
prAvarakam = coat; jacket
shirastrANam = hat; cap
praprAvarakam = topcoat; overcoat |
|
| Back to top |
|
 |
roopa_hulikal
Joined: 13 Nov 2006 Posts: 1 Location: st.paul, Mn
|
Posted: Tue Nov 14, 2006 10:53 pm Post subject: |
|
|
adhya athra mama prathama dinam. athra charchayan sarve vishayah manah prassanam karothi.yetaha vishayaha samskrita wikipedia web site posting kurvante chet bahu janaha patishyanthe cha samskrtha bhuvanam bhavathi. yethat website add http://sa.wikipedia.org/ asthi.
kripaya mama ashudda vyakaranam kshamayanthu. |
|
| Back to top |
|
 |
nareshpc
Joined: 22 Jun 2006 Posts: 47
|
Posted: Fri Nov 17, 2006 5:03 pm Post subject: |
|
|
चातुर्मास्यकथां वेत्ति य उत्सुकचेतसः।
ज्ञातुमिच्छति चान्यानां वृत्तान्तं हास्यपूरितम्॥
रामप्रियन् महोदय, अन्यानां अष्टमासानामपि कथां श्रावयतु। नो चेत् भेदः जायते खलु! (discrimination!)
Edit: Corrected a mistake: The यः in the first line was wrongly written as यो following विसर्ग सन्धि |
|
| Back to top |
|
 |
|
|
You cannot post new topics in this forum You cannot reply to topics in this forum You cannot edit your posts in this forum You cannot delete your posts in this forum You cannot vote in polls in this forum
|
Powered by phpBB © 2001, 2005 phpBB Group
|